
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
Samskrita Bharati
All episodes
Best episodes
Top 10 Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) Episodes
Goodpods has curated a list of the 10 best Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) episodes, ranked by the number of listens and likes each episode have garnered from our listeners. If you are listening to Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) for the first time, there's no better place to start than with one of these standout episodes. If you are a fan of the show, vote for your favorite Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) episode by adding your comments to the episode page.

01-46
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
06/28/17 • -1 min
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्।।1.46।।

01-27
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
03/22/17 • -1 min
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।।

01-19-20-A
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
12/29/16 • -1 min
01-19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
01-20
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
01-19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
पदच्छेतः
सः, घोषः, धार्तराष्ट्राणाम्, हृदायानि, व्यदारयत्।
नभः, च, पृथिवीम्, च, एव, तुमुलः, व्यनुनादयन्॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् सः तद्-द. पुं. प्र. एक. घोषः अ. पुं. प्र. एक. धार्तराष्ट्राणाम् अ. पुं. ष. बहु. हृदायानि अ. नपुं. द्वि. बहु. व्यदारयत् वि + दृ-णिच्. कर्तरि लङ्. प्रपु. एक. नभः नभस्-स. नपुं. द्वि. एक. च अव्ययम् पृथिवीम् ई. स्री. द्वि. एक. एव अव्ययम् तुमुलः अ. पुं. प्र. एक. व्यनुनादयन् व्यनुनादयत्-त. पुं. प्र. एक.पदार्थः
पदम् अर्थः पदम् अर्थः सः स एषः तुमुलः धोरः घोषः नादः नभः आकाशम् पृथिवीं च भूमिं च व्यनुनादयन् प्रतिध्वनयन् धार्तराष्ट्राणाम् कौरवाणाम् हृदयानि मनांसि व्यदारयत् अखण्डयत्अन्वयः
सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।
आकाङ्क्षा
व्यदारयत् कः व्यदारयत्? घोषः व्यदारयत्। कः घोषः व्यदारयत्? सः घोषः व्यदारयत्। सः कीदृशः घोषः व्यदारयत्? सः तुमुलः घोषः व्यदारयत्। सः तुमुलः घोषः कानि व्यदारयत्? सः तुमुलः घोषः हृदयानि व्यदारयत्। सः तुमुलः घोषः केषां हृदयानि व्यदारयत्? सः तुमुलः घोषः धार्तराष्ट्राणां हृदयानि व्यदारयत्। सः तुमुलः घोषः किं कुर्वन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्। सः तुमुलः घोषः किं व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्। सः तुमुलः घोषः नभः पुनश्च कां व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्? सः तुमुलः घोषः नभः पृथिवीं च व्यनुनादयन् धार्तराष्ट्राणां हृदयानि व्यदारयत्।तात्पर्यम्
सर्वेऽपि महावीराः युगपदेव शङ्खान् ध्मातवन्तः इति तदा महान् धोरश्च शब्दः समुत्पन्न्ः। तेन आकाशे भूमौ च प्रतिध्वनिः जातः। तस्य धोषस्य श्रवणेन दुष्टानां कौरवाणां हृदयानि विभिन्नानि इन अभवन्।
व्याकरणम्
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥
सन्धिः स घोषो सः + घोषो विसर्गसन्धिः (लोपः) घोषो धार्तराष्ट्राणाम् घोषः + धार्तराष्ट्राणाम् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः धार्तराष्ट्राणां हृदयानि धार्तराष्ट्राणाम् + हृदयानि अनुस्वारसन्धिः नभश्च नभः + च विसर्गसन्धिः (सकारः) श्चुत्वम् पृथिवीं चैव पृथिवीम् + चैव अनुस्वारसन्धिः चैव च + एव वृद्धिसन्धिः तुमुलो व्यनुनादयन् तुमुलः + व्यनुनादयन् विसर्गसन्धिः (सकारः), रेफः, उकारः, गुणः तद्धितान्तः धार्तराष्ट्राणाम् धृतराष्ट्र + अण् (अपत्यार्थे)। धृतराष्ट्रस्य अपत्यानि पुमांसः।01-20
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
पदच्छेतः
अथ, व्यवस्थितान्, दृष्ट्वा, धार्तराष्ट्रान्, कपिध्वजः।
प्रवृत्ते, शस्त्रसम्पाते, धनुः, उद्यम्य, पाण्डवः॥
हृषीकेशम्, तदा, वाक्यम्, इदम्, आह, महीपते।
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् अथ अव्ययम् व्यवस्थितान् अ. पुं. द्वि. बहु. दृष्ट्वा अव्ययम् धार्तराष्ट्रान् अ. पुं. द्वि. बहु. कपिध्वजः अ. पुं. प्र. एक. प्रवृत्ते अ. पुं. स. एक शस्त्रसम्पाते अ. पुं. स. एक धनुः धनुष्-ष. नपुं. द्वि. एक. उद्यम्य ल्यबन्तम् अव्ययम् पाण्डवः अ. पुं. प्र. एक. हृषीकेशम् अ. पुं. द्वि. एक. तदा अव्ययम् वाक्यम् अ. नपुं. द्वि. एक. इदम् इदम-म्. नपुं. द्वि. एक. आह ब्रुञ्-पर. कर्तरि. प्रपु. एक. महीपते इ. पुं. सम्बो. एक.पदार्थः
पदम् अर्थः पदम् अर्थः महीपते हे धृतराष्ट्र! अथ ततः व्यवस्थितान् उद्युक्तान् धार्तराष्ट्रान् कौरवान् दृष्ट्वा वीक्ष्य कपिध्वजः वानरकेतनः पाण्डवः अर्जुनः शस्त्रसम्पाते आयुधपाते प्रवृत्ते सम्पन्ने धनुः चापम् उद्यम्य उद्धृत्य तदा तस्मिन् समये हृषीकेशम् कृष्णम् इदम् एतत् वाक्यम् वचनम् आह वदतिअन्वयः
हे महीपते! अथ व्यवस्थितान् धार्तराष्ट्रान् दृष्ट्वा कपिद्वजः पाण्डवः शस्त्रसम्पाते प्रवृते धनुः उद्यम्य तदा हृषीकेशम् इदं वाक्यम् आह।
आकाङ्क्षा
आह कः आह? पाण्डवः आह। कीदृशः पाण्डवः आह? कपिद्वजः पाण्डवः आह। कपिद्वजः पाण्डवः किम्
01-15-18
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
12/22/16 • -1 min
01-15-16
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।
पदच्छेतः
पाञ्चजन्यम्, हृषीकेशः, देवदत्तम्, धनञ्जयः।
पौण्ड्रम्, दध्मौ, महाशङ्खम्, भीमकर्मा, वृकोदरः॥
अनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः।
नकुलः, सहदेवः, च, सुघौषमणिपुष्पकौ॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् पाञ्चजन्यम् अ. पुं. द्वि. एक. हृषीकेशः अ. पुं. प्र. एक. देवदत्तम् अ. पुं. द्वि. एक. धनञ्जयः अ. पुं. प्र. एक. पौण्ड्रम् अ. पुं. द्वि. एक. दध्मौ ध्म-पर. कर्तरि. लिट्. प्रपु. एक. महाशङ्खम् अ. पुं. द्वि. एक. भीमकर्मा भीमकर्मन्-न. पुं. प्र. एक. वृकोदरः अ. पुं. प्र. एक. अनन्तविजयम् अ. पुं. द्वि. एक. राजा राजन्-न. पुं. प्र. एक. कुन्तीपुत्रः अ. पुं. प्र. एक. युधिष्ठिरः अ. पुं. प्र. एक. नकुलः अ. पुं. प्र. एक. सहदेवः अ. पुं. प्र. एक. च अव्ययम् सुघौषमणिपुष्पकौ अ. पुं. द्वि. द्विव.पदार्थः
पदम् अर्थः पदम् अर्थः हृषीकेशः श्रीकृष्णः पाञ्चजन्यम् तन्नामकम् धनञ्जयः अर्जुनः देवदत्तम् तन्नामकम् भावकर्मा भयङ्करकार्यकारी वृकोदरः भामः पौण्ड्रम् तन्नामकम् महाशङ्खम् महाकारकं शङ्खम् कुन्तीपुत्रः कुन्तीसुतः राजा युधिष्ठिरः महाराजः युधिष्ठिरः अनन्तविजयम् तन्नामकम् नकुलः सहदेवश्च नकुलः सहदेवश्च सुघोषमणिपुष्पकौ तन्नामकम् दध्मौ अधमत्अन्वयः
हृषिकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजनं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ।
आकाङ्क्षा
दध्मौ कः दध्मौ? हृषीकेशः दध्मौ। हृषीकेशः पुनश्च कः दध्मौ।? हृषीकेशः धनञ्जयशच दध्मौ।। हृषीकेशः धनञ्जयः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः वृकोदरश्च दध्मौ। हृषीकेशः धनञ्जयः कीदृशश्च वृकोदरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः युधिष्ठरश्च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कीदृशश्च युधिष्ठरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः युधिष्ठरः च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः पुनः कीदृशश्च कुन्तीपुत्रः युधिष्ठरः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलश्च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः पुनश्च कः दध्मौ? हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः सहदेवश्च दध्मौ। हृषीकेशः धनञ्जयः भीमकर्मा वृकोदरः कुन्तीपुत्रः राजा युधिष्ठरः नकुलः सहदेवश्च कं कं दध्मौ? हृषीकेशः पाञ्चजन्यम्, धनञ्जयः देवदत्तम्, भीमकर्मा वृकोदरः पौण्ड्रं महाशङ्खम्, कुन्तीपुत्रः राजा युधिष्ठरः अनन्तविजयम्, नकुलः सहदेवश्च सुघोषमणिपुष्पकौ दध्मौ।तात्पर्यम्
भगवान् श्रीकृष्णः स्वीयं पाञ्चजन्यम् अधमत्। अर्जुनः देवदत्तं नामकं स्वीयं पाञ्चजन्यम् अधमत्। भामस्तु भयङेकरणां कार्याणां करणे कुशलः। पौण्ड्रनामकः तस्य शङ्कोऽपि महान् एव। सः तम् अधमत्। युधिष्ठिरः अनन्तविजयनामकं शङ्खम् अधमत्। नकुलः सुघोषनामकं सहदेवः च मणिपुष्पकनामकं शङ्कम् अधमत्।
व्याकरणम्
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः।।1.15।।
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ।।1.16।।
सन्धिः पाञ्चजन्यं हृषीकेशः पाञ्चजन्यम् + हृषीकेशः अनुस्वारसन्धिः हृषीकेशो देवदत्तं हृषीकेशः + देवदत्तं विसर्गसन्धिः (सकारः) रेफ, उकारः, गुणः देवदत्तं धनञ्जयः देवदत्तम् + धनञ्जयः अनुस्वारसन्धिः पौण्ड्रं दध्मौ पौण्ड्रम् + दध्मौ अनुस्वारसन्धिः महाशङ्खं भीमकर्मा महाशङ्खम् + भीमकर्मा अनुस्वारसन्धिः अनन्तविजयं राजा अनन्तविजयम् + राजा अनुस्वारसन्धिः कुन्तीपुत्रो युधिष्ठिरः कुन्तीपुत्रः + युधिष्ठिरः विसर्गसन्धिः (सकारः) रेफ, उकारः, गुणः सहदेवश्च सहदेवः + च विसर्गसन्धिः (सकारः) श्चुत्वम् समासः हृषीकेशः हृषीकाणाम् ईशःहृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान्।
हृषीकेशस्ततो विष्णो ख्यातो देवेषु केशव॥ – महाभरतम्
षष्ठीतत्पुरुषः। (हृषीकम् इन्द्रियम्) महाशङ्खम् महान् शङखः महाशङ्खः, तम् कर्मधारयः। वृकोधरः वृकस्य उदरम् इव उदरं यस्य सः बहुव्रीहिः। कुन्तीपुत्ररः कुन्त्याः पुत्रः षष्ठीतत्पुरुषः। युधिष्ठिरः युधि स्थिरः सपुतमीतत्पुरुषः। समासे सति षत्वम्। धनञ्जयः धनं जयति इति धनञ्जयःसर्वाञ्जनपताञ्जित्वा वित्तमादाय केवलम्।
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनञ्...

01-14-B
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
12/15/16 • -1 min
01-14-B
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।
पदच्छेतः
ततः, श्वेतैः, हयैः, युक्ते, महति, स्यन्दने, स्थितौ।
माधवः, पाण्डवः, च, एव, दिव्यौ, शङ्खौ, प्रदध्मतुः॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् ततः अव्ययम् श्वेतैः अ. पुं. त्रि. बहु. हयैः अ. पुं. त्रि. बहु. युक्ते अ. नपुं?. स. एक. महति अ. नपुं?. स. एक. स्यन्दने अ. नपुं?. स. एक. स्थितौ अ. पुं. प्र. द्विव. माधवः अ. पुं. प्र. एक. पाण्डवः अ. पुं. प्र. एक. च अव्ययम् एव अव्ययम् दिव्यौ अ. पुं. द्वि. द्विव. शङ्खौ अ. पुं. द्वि. द्विव. प्रदध्मतुः ध्मा -पर. कर्तरि. लिट्. प्रपु. द्विव.पदार्थः
पदम् अर्थः पदम् अर्थः ततः तस्मात्परम् माधवः श्रीकृष्णः पाण्डवाश्च अर्जुणश्च श्वतैः धवलैः हयैः अश्वैः युक्ते सम्युक्ते महति विशाले स्यन्दने रथे स्थितौ उपविष्टौ दिव्यौ अलौकिकौ शङ्खौ शङ्खौ प्रदध्मतुः ध्मातवन्तौअन्वयः
ततः माधवः पाण्डवश्च श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः।
आकाङ्क्षा
प्रदध्मतुः कौ प्रदध्मतुः? माधवः पाण्डवश्च प्रदध्मतुः। माधवः पाण्डवश्च कौ प्रदध्मतुः? माधवः पाण्डवश्च शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कीदृशौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कथंभूतौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कुत्र स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कीदृशे स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च पुनश्च कीदृशे महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। माधवः पाण्डवश्च कीदृशैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः। कस्मातपरं माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः? ततः माधवः पाण्डवश्च श्वेतैः अश्वैः युक्ते महति स्यन्दने स्थितौ दिव्यौ शङ्खौ प्रदध्मतुः।तात्पर्यम्
ततः पश्चात् भगवान् श्रीकृष्णः अर्जुनश्च धवलवर्णैः अश्वैः उह्यमानेन महता रथेन तत्र समागतौ। तौ च युद्धोत्साहवर्धनाय स्वीयौ अलौकिकौ शङ्खौ ध्मातवन्तौ।
व्याकरणम्
सन्धिः श्वेतैर्हयैः श्वेतैः + हयैः विसर्गसन्धिः (रेफः) श्वेतैर्हयैर्युक्ते श्वेतैर्हयैः + युक्ते विसर्गसन्धिः (रेफः) पाण्डवश्च पाण्डवः + च विसर्गसन्धिः (सकारः) श्चुत्वम् पाण्डवश्चैव पाण्डवश्च + एव वृद्धिसन्धिः समासः माधवः मायाः (लक्ष्म्याः) धवः षष्ठितत्पुरुषः कृदन्तः स्यन्दने स्यन्द् + ल्युट् (करणे), तस्मिन्।स्यन्दन्ते (गच्छन्ति) अनेन इति स्यन्दनम्।
स्थितौ स्था + क्त। (कर्तरि) तद्धितान्तः पाण्डवः पाण्डु + अण् (अपत्यार्थे)। पाण्डोः अपत्यं पुमान्। दिव्यौ दिव् + यत् (भवार्थे)। दिवि भवौ।
01-11-13
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
12/01/16 • -1 min
01-11
अयनेषु च सर्वेषु यथाभागमवस्थिताः।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि।।1.11।।
पदच्छेतः
अयनेषु, च, सर्वेषु, यथाभागम्, अवस्थिताः।
भीष्मम्, एव, अभिरक्षन्तु, भवन्तः, सर्वे, एव, हि॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् अयनेषु अ. नपुं. स. बहु. च अन्वयम् सर्वेषु अ. पुं. सर्व. स. बहु. यथाभागम् अन्वयम् अवस्थिताः अ. पुं. प्र. बहु. भीष्मम् अ. पुं. द्वि. एक. एव अन्वयम् अभिरक्षन्तु अभि + रक्ष् – पर.लोट्.प्रत.बहु. भवन्तः भवत्-त. पुं. प्र. बहु. सर्वे अ. पुं. सर्व. प्र. बहु. एव अन्वयम् हि अन्वयम्पदार्थः
पदम् अर्थः पदम् अर्थः सर्वेषु सकलेषु अयनेषु व्यूहानां द्वारेषु यथाभागम् स्वस्वभागे अवस्थिताः स्थिताः भवन्तः सर्वे समस्ताः भवन्तः भीष्मम् एव भीष्माचार्यम् एव अभिरक्षन्तु संरक्षन्तुअन्वयः
सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।
आकाङ्क्षा
अभिरक्षन्तु के अभिरक्षन्तु? भवन्तः अभिरक्षन्तु। भवन्तः कीयन्तः अभिरक्षन्तु? भवन्तः सर्वे अभिरक्षन्तु। कीदृशाः भवन्तः सर्वे अभिरक्षन्तु? अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। कथम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। कुत्र यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। कतिषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे अभिरक्षन्तु। सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे कम् एव अभिरक्षन्तु? सर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु।तात्पर्यम्
भवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु। सेनाधिपतीं भीष्मं च रक्षन्तु।
व्याकरणम्
सन्धिः एवाभिरक्षन्तु एव + अभिरक्षन्तु सवर्णदीर्धसन्धिः सर्व एव सर्वे + एव यान्तवान्तादेशसन्धिः, यलोपः, प्रकृतिभावः समासः यथाभागम् भागम् अवतिक्रम्य अव्ययीभावः कृदन्तः अवस्थिताः अव + स्था + क्त (कर्तरि) अयनेषु अय् + ल्युट् (करणे) अयन्ते (गच्छन्ति) एभिः इति अयनानि, तेषु।01-12
तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्॥१.१२॥
पदच्छेतः
तस्य, सञ्जनयन्, हर्षम्, कुरुवृद्धः, पितामहः।
सिंहनादम्, विनद्य, उच्चैः, शङ्खम्, दध्मौ, प्रतापवान्॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् तस्य तद्-द. सर्व. पुं. ष. एक. सञ्जनयन् सञ्जनयत्-त. पुं. प्र. एक. हर्षम् अ. पुं. द्वि. एक. कुरुवृद्धः अ. पुं. प्र. एक. पितामहः अ. पुं. प्र. एक. सिंहनादम् णमुलन्तम् अव्ययम् विनद्य ल्यबन्तम् अव्ययम् उच्चैः अव्ययम् शङ्खम् अ. पुं. द्वि. एक. दध्मौ ध्मा-पर. कर्तरि. लिट्. प्रपु. एक. प्रतापवान्॥ प्रतापवत्-त. पुं. प्र. एक.पदार्थः
पदम् अर्थः पदम् अर्थः प्रतापवान् तेजस्वी कुरुवृद्धः कुरुषु ज्येष्टः पितामहः भीष्मः तस्य दुर्योधनस्य हर्षम् मोदम् सञ्जनयन् उत्पादयन् सिंहनादं विनद्य सिहः इव गर्जित्वा शङखम् शङखम् उच्चैः गाढम् दध्मौ आध्मातवान्अन्वयः
प्रतापवान् कुरुवृद्धः पितामहः तस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ।
आकाङ्क्षा
दध्मौ कः दध्मौ? पितामहः दध्मौ। कीदृशः पितामहः दध्मौ? कुरुवृद्धः पितामहः दध्मौ। पुनः कीदृशः कुरुवृद्धः पितामहः दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः कं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः कथं शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः उच्चैः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः किं कृत्वा उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः विनद्य उच्चैः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः कथं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः किं कुर्वन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः कं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरुवृद्धः पितामहः हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ। प्रतापवान् कुरुवृद्धः पितामहः कस्य हर्षं सञ्जनयन् सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ? प्रतापवान् कुरु...
01-37
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
05/03/17 • -1 min
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव।।1.37।।

01-07
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
11/10/16 • -1 min
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥
01-07
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥
पदच्छेतः
अस्माकम्, तु, विशिष्टाः, ये, तान्, निबेध, द्विजोत्तम ।
नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥
पदपरिचयः
पदम् विवरणम् पदम् विवरणम् अस्माकम् अस्मद् -द. सर्व. ष. बहु. तु अव्ययम् विशिष्टाः अ. पुं. प्र. बहु. ये यद् -द. सर्व. प्र. बहु. तान् तद् -द. सर्व. द्वि. बहु. निबेध नि + बुध् -पर. कर्तरी. लोट्. मपु. एक. द्विजोत्तम अ. पुं. सम्बो. एक. नायकाः अ. पुं. प्र. बहु. मम अस्मद् -द. सर्व. ष. एक. सैन्यस्य अ. नपुं. ष. एक. ब्रवीमि ब्रुञ् -पर. कर्तरी लट्. प्रपु. एक. ते युष्मद् -द. सर्व. च. एक.पदार्थः
पदम् अर्थः पदम् अर्थः द्विजोत्तम हे द्विजोत्तम द्रोणाचार्य ! अस्माकं तु अस्माकं कौरवाणां तु विशिष्टाः असाधारणाः ये ये योद्धारः तान् तान् निबोध जानीही मम दुर्योधनस्य मम सैन्यस्य सेनायाः नायकाः ये सेनापतयः तान् तान् नायकान् ते तुभ्यम् संज्ञार्थम् सम्यक् ज्ञानार्थम् ब्रवीमि दिवेदयामिअन्वयः
द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि।
आकाङ्क्षा
विशिष्टाः । केषां विशिष्टाः ? अस्माकं विशिष्टाः । अस्माकं ये विशिष्टाः तान् किं करेमि ? अस्माकं ये विशिष्टाः तान् निबोध । नायकाः । कस्य नायकाः ? सैन्यस्य नायकाः । कस्य सैन्यस्य नायकाः ? मम सैन्यस्य नायकाः । तव सैन्यस्य ये नायकाः तान् किं करोमि ? मम सैन्यस्य ये नायकाः तान् ब्रवीमि । तव सैन्यस्य नायकाः तान् किमर्थं ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ब्रवीमि । तव सैन्यस्य नायकाः तान् संज्ञार्थं कस्मै ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि । अस्मिन् श्लोके सम्बोधनपदं किम् ? द्विजोत्तम ब्रवीमि । कान् ब्रवीमि ? तान् ब्रवीमि । तान् कस्मै ब्रवीमि ? तान् ते ब्रवीमि । के ते? तान् ते ब्रवीमि ? ते नायकाः । तान् ते ब्रवीमि । ते कस्य नायकाः ? तान् ते ब्रवीमि ? ते सैन्यस्य नायकाः । तान् ते ब्रवीमि । ते कस्य सैन्यस्य नायकाः ? तान् ते ब्रवीमि ? ते मम सैन्यस्य नायकाः । तान् ते ब्रवीमि । ये मम सैन्यस्य नायकाः तान् किमर्थं ते ब्रवीमि ? ये मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।तात्पर्यम्
हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञार्थं तेषां नामानि अहं स्मारयामि ।
व्याकरणम्
सन्धिः अस्माकं तु अस्माकम् + तु अनुस्वारसन्धिः विशिष्टा ये विशिष्टाः + ये विसर्गसन्धिः (लोपः) नायका मम नायकाः + मम विसर्गसन्धिः (लोपः) संज्ञार्थं तान् संज्ञार्थम् + तान् अनुस्वारसन्धिः समासः द्विजोत्तमः द्विजेषु उत्तमः सप्तमीतत्पुरुषः । संज्ञार्थम् संज्ञायै इदम् चतुर्थीतत्पुरुषः । (नित्यसमासः) कृदन्तः विशिष्टः वि + शिष् + क्त । (कर्तरी) विशिष्यते इति विशिष्टः ।
01-44
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
06/14/17 • -1 min
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम।।1.44।।

01-43
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
06/07/17 • -1 min
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः।।1.43।।
Show more best episodes

Show more best episodes
FAQ
How many episodes does Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) have?
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) currently has 39 episodes available.
What topics does Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) cover?
The podcast is about Hinduism, Religion & Spirituality, Podcasts and Usa.
What is the most popular episode on Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)?
The episode title '01-46' is the most popular.
How often are episodes of Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) released?
Episodes of Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) are typically released every 7 days.
When was the first episode of Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)?
The first episode of Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) was released on Oct 4, 2014.
Show more FAQ

Show more FAQ