Log in

goodpods headphones icon

To access all our features

Open the Goodpods app
Close icon
Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati) - 01-07

01-07

11/10/16 • -1 min

Bhagavad Gita Class (Ch1) in Sanskrit by Dr. K.N. Padmakumar (Samskrita Bharati)
https://archive.org/download/BhagavadGitaSanskrit/01-07-SBUSA-BG.mp3

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

01-07

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥1.7॥

पदच्छेतः

अस्माकम्, तु, विशिष्टाः, ये, तान्, निबेध, द्विजोत्तम ।

नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम् अस्माकम् अस्मद् -द. सर्व. ष. बहु. तु अव्ययम् विशिष्टाः अ. पुं. प्र. बहु. ये यद् -द. सर्व. प्र. बहु. तान् तद् -द. सर्व. द्वि. बहु. निबेध नि + बुध् -पर. कर्तरी. लोट्. मपु. एक. द्विजोत्तम अ. पुं. सम्बो. एक. नायकाः अ. पुं. प्र. बहु. मम अस्मद् -द. सर्व. ष. एक. सैन्यस्य अ. नपुं. ष. एक. ब्रवीमि ब्रुञ् -पर. कर्तरी लट्. प्रपु. एक. ते युष्मद् -द. सर्व. च. एक.

पदार्थः

पदम् अर्थः पदम् अर्थः द्विजोत्तम हे द्विजोत्तम द्रोणाचार्य ! अस्माकं तु अस्माकं कौरवाणां तु विशिष्टाः असाधारणाः ये ये योद्धारः तान् तान् निबोध जानीही मम दुर्योधनस्य मम सैन्यस्य सेनायाः नायकाः ये सेनापतयः तान् तान् नायकान् ते तुभ्यम् संज्ञार्थम् सम्यक् ज्ञानार्थम् ब्रवीमि दिवेदयामि

अन्वयः

द्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि।

आकाङ्क्षा

विशिष्टाः । केषां विशिष्टाः ? अस्माकं विशिष्टाः । अस्माकं ये विशिष्टाः तान् किं करेमि ? अस्माकं ये विशिष्टाः तान् निबोध । नायकाः । कस्य नायकाः ? सैन्यस्य नायकाः । कस्य सैन्यस्य नायकाः ? मम सैन्यस्य नायकाः । तव सैन्यस्य ये नायकाः तान् किं करोमि ? मम सैन्यस्य ये नायकाः तान् ब्रवीमि । तव सैन्यस्य नायकाः तान् किमर्थं ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ब्रवीमि । तव सैन्यस्य नायकाः तान् संज्ञार्थं कस्मै ब्रवीमि ? मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि । अस्मिन् श्लोके सम्बोधनपदं किम् ? द्विजोत्तम ब्रवीमि । कान् ब्रवीमि ? तान् ब्रवीमि । तान् कस्मै ब्रवीमि ? तान् ते ब्रवीमि । के ते? तान् ते ब्रवीमि ? ते नायकाः । तान् ते ब्रवीमि । ते कस्य नायकाः ? तान् ते ब्रवीमि ? ते सैन्यस्य नायकाः । तान् ते ब्रवीमि । ते कस्य सैन्यस्य नायकाः ? तान् ते ब्रवीमि ? ते मम सैन्यस्य नायकाः । तान् ते ब्रवीमि । ये मम सैन्यस्य नायकाः तान् किमर्थं ते ब्रवीमि ? ये मम सैन्यस्य नायकाः तान् संज्ञार्थं ते ब्रवीमि ।

तात्पर्यम्

हे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञार्थं तेषां नामानि अहं स्मारयामि ।

व्याकरणम्

सन्धिः अस्माकं तु अस्माकम् + तु अनुस्वारसन्धिः विशिष्टा ये विशिष्टाः + ये विसर्गसन्धिः (लोपः) नायका मम नायकाः + मम विसर्गसन्धिः (लोपः) संज्ञार्थं तान् संज्ञार्थम् + तान् अनुस्वारसन्धिः समासः द्विजोत्तमः द्विजेषु उत्तमः सप्तमीतत्पुरुषः । संज्ञार्थम् संज्ञायै इदम् चतुर्थीतत्पुरुषः । (नित्यसमासः) कृदन्तः विशिष्टः वि + शिष् + क्त । (कर्तरी) विशिष्यते इति विशिष्टः ।
plus icon
bookmark

Previous Episode

undefined - 01-04-06

01-04-06

https://archive.org/download/BhagavadGitaSanskrit/01-04-06-SBUSA-BG.mp3

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि।
युयुधानो विराटश्च द्रुपदश्च महारथः।।1.4।।

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान्।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः।।1.5।।

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।

Next Episode

undefined - 01-08-09

01-08-09

https://archive.org/download/BhagavadGitaSanskrit/01-08-09-SBUSA-BG.mp3

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।

01-08

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः।

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।

पदच्छेतः

भवान्, भाष्मः, च, कर्णः, च, कृपः, च, समितिञ्जयः ।

अश्वत्थामा, विकर्णः, च, सौमदत्तिः, तथा, एव, च ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम् भवान् भवत् -त. पु. प्र. एक. भाष्मः अ. पु. प्र. एक. च अव्ययम् कर्णः अ. पु. प्र. एक. कृपः अ. पु. प्र. एक. समितिञ्जयः अ. पु. प्र. एक. अश्वत्थामा अश्वत्थामन् -न. पु. प्र. एक. विकर्णः अ. पु. प्र. एक. सौमदत्तिः इ. पुं. प्र. एक. तथा अव्ययम् एव अव्ययम्

अन्वयः

भवान् भीष्मः कर्णः समितिञ्जयः च कृपः अश्वत्थामा विकर्णः तथैव सौमदत्तिः सन्ति ।

आकाङ्क्षा

सन्तिके के सन्ति ? भवान् भीष्मः कर्णः समितिञ्जयश्च कृपः अश्वत्थामा विकर्णः सौमदत्तिः च (सन्ति) ।

व्याकरणम्

सन्धिः भीष्मश्च भीष्मः + च विसर्गसन्धिः (सकारः) श्चुत्वम् कर्णश्च कर्णः + च विसर्गसन्धिः (सकारः) श्चुत्वम् कृपश्च कृपः + च विसर्गसन्धिः (सकारः) श्चुत्वम् विकर्णश्च विकर्णः + च विसर्गसन्धिः (सकारः) श्चुत्वम् सौमदत्तिस्तथैव सौमदत्तिः + तथैव विसर्गसन्धिः (सकारः) सौमदत्तिस्तथैव सौमदत्तिस्तथा + एव वृद्धिसन्धिः समासः समितिञ्जयः समितिं (युद्धं) जयति कर्तरि खश्-प्रत्ययः उपपदसमासश्च । अश्वत्थामा अश्वस्य स्थामा इव स्थामा (स्थितिः) यस्य सः बहुव्रीहिः विकर्णः विशिष्टौ कर्णौ यस्य सः बहुव्रीहिः तद्धितान्तः सौमदत्तिः सौमदत्त + इञ् (अपत्यार्थे) । सोमदत्तस्य अपत्यं पुमान् ।

01-09

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः।

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः।।1.9।।

पदच्छेतः

अन्ये, च, बहवः, शूराः, मदर्थे, त्यक्तजीनिताः ।

नानाशस्त्रप्रहरणाः, सर्वे, युद्धविशारदाः ॥

पदपरिचयः

पदम् विवरणम् पदम् विवरणम् अन्ये अ. सर्व. पु. प्र. बहु. च अन्वयम् बहवः उ. पु. प्र. बहु. शूराः अ. पु. प्र. बहु. मदर्थे अव्ययम् त्यक्तजीविताः अ. पु. प्र. बहु. नानाशस्त्रप्रहरणाः अ. पु. प्र. बहु. सर्वे अ. पु. सर्व. प्र. बहु. युद्धविशारदाः अ. पु. प्र. बहु.

पदार्थः

पदम् अर्थः पदम् अर्थः अन्ये इतरे बहवः नैके शूराः विक्रमिणः मदर्थे मम कृते त्यक्तजीविताः अर्पितप्राणाः नानाशस्त्रप्रहरणाः बहुशस्त्राः सर्वे सकलाः युद्धविशारदाः समरनिपुणाः

अन्वयः

नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

आकाङ्क्षा

त्यक्तजीविताः सन्ति । कस्मै त्यक्तजीविताः (सन्ति) ? मदर्थे त्यक्तजीविताः (सन्ति) । के मदर्थे त्यक्तजीविताः (सन्ति) ? अन्ये मदर्थे त्यक्तजीविताः (सन्ति) ? अन्ये च कति मदर्थे त्यक्तजीविताः (सन्ति) ? अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । नानाशस्त्रप्रहरणाः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । नानाशस्त्रप्रहरणाः शूराः पुनः कीदृशाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) । नानाशस्त्रप्रहरणाः शूराः कति यद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ? नानाशस्त्रप्रहरणाः शूराः सर्वे युद्धविशारदाः अन्ये च बहवः मदर्थे त्यक्तजीविताः (सन्ति) ।

तात्पर्यम्

न केवलम् एतावन्तः, अन्येऽपि बहवः मदर्थे प्राणान् समर्पयितुं सिद्धाः बहुविधानि प्रहारसाधनानि शस्त्राणि धृतवन्तः समरनिष्णाताः विक्रमिणः सैन्ये सन्ति ।

व्याकरणम्

सन्धिः शूरा मदर्थे शूराः + मदर्थे विसर्गसन्धिः (लेपः) समासः त्यक्तजीविताः त्यक्तं जीवितं यैः ते बहुव्रीहिः । नानाशस्त्रप्रहरणाः नानाविधानि शस्तत्राणि नानाशस्त्राणि मध्यमपदलोपी तत्पुरुषः । नानाशस्त्राणि प्रहरनानि येषां ते बहुव्रीहिः । युद्धविशारधाः युद्धे विशारदाः सप्तमीतत्पुरुषः । मदर्थे मम अर्थे षष्टीतत्पुरुषः । संज्ञकौ – इति वचनात् अर्थे इत्येतत् अव्ययम् । तदन्तत्वात् अयमपि शब्दः अव्ययम् ।

Episode Comments

Generate a badge

Get a badge for your website that links back to this episode

Select type & size
Open dropdown icon
share badge image

<a href="https://goodpods.com/podcasts/bhagavad-gita-class-ch1-in-sanskrit-by-dr-kn-padmakumar-samskrita-bhar-100259/01-07-5289499"> <img src="https://storage.googleapis.com/goodpods-images-bucket/badges/generic-badge-1.svg" alt="listen to 01-07 on goodpods" style="width: 225px" /> </a>

Copy